17.9 The foods that are bitter, sour, saline, excessively hot, pungent, dry and burning, are liked by the Rajasic and are productive of pain, grief and disease.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||
BG 17.9
Audio
Translations & commentaries(4)
Sūtra — Translation
।।17.9।। कड़वे, खट्टे, लवणयुक्त, अति उष्ण, तीक्ष्ण (तीखे, मिर्च युक्त), रूखे. दाहकारक, दु:ख, शोक और रोग उत्पन्न कारक भोज्य पदार्थ राजस पुरुष को प्रिय होते हैं।।
कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिन इत्य् अत्राति-शब्दः कट्वादिषु सर्वत्र योज्यः । अतिकटुः अतितीक्ष्णः इत्य् एवम् । कटुश् चाम्लश् च लवणश् चात्युष्णश् च तीक्ष्णश् च रूक्षश् च विदाही च ते आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः दुःखं च शोकं चामयं च प्रयच्छन्तीति दुःख-शोकामय-प्रदाः
kaṭv-amla-lavaṇātyuṣṇa-tīkṣṇa-rūkṣa-vidāhina ity atrāti-śabdaḥ kaṭvādiṣu sarvatra yojyaḥ | atikaṭuḥ atitīkṣṇaḥ ity evam | kaṭuś cāmlaś ca lavaṇaś cātyuṣṇaś ca tīkṣṇaś ca rūkṣaś ca vidāhī ca te āhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ duḥkhaṃ ca śokaṃ cāmayaṃ ca prayacchantīti duḥkha-śokāmaya-pradāḥ