16.8 They say, "This universe is without truth, without (moral) basis, without a God, brought about by mutual union, with lust for its cause; what else?"
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८||
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||
BG 16.8
Audio
Translations & commentaries(4)
Sūtra — Translation
।।16.8।। वे कहते हैं कि यह जगत् आश्रयरहित, असत्य और ईश्वर रहित है, यह (स्त्रीपुरुष के) परस्पर कामुक संबंध से ही उत्पन्न हुआ है, और (इसका कारण) क्या हो सकता है?
असत्यं यथा वयम् अनृत-प्रायास् तथेदं जगत् सर्वम् असत्यम् । अप्रतिष्ठं च नास्य धर्माधर्मौ प्रतिष्ठातो ऽप्रतिष्ठं चेति । ते आसुराः जनाः जगद् आहुर् अनीश्वरम् न च धर्माधर्म-स-व्यपेक्षको ऽस्य शासितेश्वरो विद्यत इत्य् अतो ऽनीश्वरं जगद् आहुः । किं च, अपरस्पर-संभूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगाज् जगत् सर्वं संभूतम् । किम् अन्यत् काम-हैतुकम् । काम-हेतुकम् एव काम-हैतुकम् । किम् अन्यज् जगतः कारणम् ? न किंचित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते । जगतः काम एव प्राणिनां कारणम् इति लोकायतिक-दृष्टिर् इयम्
asatyaṃ yathā vayam anṛta-prāyās tathedaṃ jagat sarvam asatyam | apratiṣṭhaṃ ca nāsya dharmādharmau pratiṣṭhāto 'pratiṣṭhaṃ ceti | te āsurāḥ janāḥ jagad āhur anīśvaram na ca dharmādharma-sa-vyapekṣako 'sya śāsiteśvaro vidyata ity ato 'nīśvaraṃ jagad āhuḥ | kiṃ ca, aparaspara-saṃbhūtaṃ kāma-prayuktayoḥ strī-puruṣayor anyonya-saṃyogāj jagat sarvaṃ saṃbhūtam | kim anyat kāma-haitukam | kāma-hetukam eva kāma-haitukam | kim anyaj jagataḥ kāraṇam ? na kiṃcit adṛṣṭaṃ dharmādharmādi kāraṇāntaraṃ vidyate | jagataḥ kāma eva prāṇināṃ kāraṇam iti lokāyatika-dṛṣṭir iyam