16.7 The demoniacal know not what to do and what to refrain from; neither purity, nor right conduct nor truth is found in them.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||
BG 16.7
Audio
Translations & commentaries(4)
Sūtra — Translation
।।16.7।। आसुरी स्वभाव के लोग न प्रवृत्ति को; जानते हैं और न निवृत्ति को उनमें न शुद्धि होती है, न सदाचार और न सत्य ही होता है।।
आ अध्याय-परिसमाप्तेर् आसुरी संपत् प्राणि-विशेषणत्वेन प्रदर्श्यते, प्रत्यक्षी-करणेन च शक्यते तस्याः परिवर्जनं कर्तुम् इति - प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थ-साधने कर्तव्ये प्रवृत्तिस् ताम्, निवृत्तिं च एतद्-विपरीतां यस्मात् अनर्थ-हेतोः निवर्तितव्यं सा निवृत्तिस् तां च, जना आसुरा न विदुर् न जानन्ति । न केवलं प्रवृत्ति-निवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते । अशौचा अनाचारा मायाविनो ऽनृत-वादिनो ह्य् आसुराः
ā adhyāya-parisamāpter āsurī saṃpat prāṇi-viśeṣaṇatvena pradarśyate, pratyakṣī-karaṇena ca śakyate tasyāḥ parivarjanaṃ kartum iti - pravṛttiṃ ca pravartanaṃ yasmin puruṣārtha-sādhane kartavye pravṛttis tām, nivṛttiṃ ca etad-viparītāṃ yasmāt anartha-hetoḥ nivartitavyaṃ sā nivṛttis tāṃ ca, janā āsurā na vidur na jānanti | na kevalaṃ pravṛtti-nivṛttī eva te na viduḥ, na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate | aśaucā anācārā māyāvino 'nṛta-vādino hy āsurāḥ