16.14 "That enemy has been slain by me; and others also I shall slay. I am the lord. I enjoy. I am perfect, powerful and happy."
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
असौ मया हतः शत्रुर्हनिष्ये चापरानपि | ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१६-१४||
asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||
BG 16.14
Audio
Translations & commentaries(4)
Sūtra — Translation
।।16.14।। "यह शत्रु मेरे द्वारा मारा गया है और दूसरे शत्रुओं को भी मैं मारूंगा", "मैं ईश्वर हूँ और भोगी हूँ", "मैं सिद्ध पुरुष हूँ", "मैं बलवान और सुखी हूँ",।।
असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः । हनिष्ये चापरान् अन्यान् वराकान् अपि । किम् एते करिष्यन्ति तपस्विनः । सर्वथापि नास्ति मत्तुल्यः । कथम् ? ईश्वरो ऽहम्, अहं भोगी । सर्व-प्रकारेणश् च सिद्धो ऽहं संपन्नः पुत्रैः नप्तृभिः, न केवलं मानुषः, बलवान् सुखी चाहम् एव । अन्ये तु भूमिभारायावितीर्णाः
asau devadattanāmā mayā hato durjayaḥ śatruḥ | haniṣye cāparān anyān varākān api | kim ete kariṣyanti tapasvinaḥ | sarvathāpi nāsti mattulyaḥ | katham ? īśvaro 'ham, ahaṃ bhogī | sarva-prakāreṇaś ca siddho 'haṃ saṃpannaḥ putraiḥ naptṛbhiḥ, na kevalaṃ mānuṣaḥ, balavān sukhī cāham eva | anye tu bhūmibhārāyāvitīrṇāḥ