15.20 Thus, this most secret science has been taught by Me, O sinless one; on knowing this, a man becomes wise, and all his duties are accomplished, O Arjuna.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५-२०||
iti guhyatamaṃ śāstramidamuktaṃ mayānagha . etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||15-20||
BG 15.20
Audio
Translations & commentaries(4)
Sūtra — Translation
।।15.20।। हे निष्पाप भारत ! इस प्रकार यह गुह्यतम शास्त्र मेरे द्वारा कहा गया, इसको जानकर मनुष्य बुद्धिमान और कृतकृत्य हो जाता है।।
अस्मिन् अध्याये भगवत्-तत्त्व-ज्ञानं मोक्ष-फलम् उक्त्वा, अथ इदानीं तत् स्तौति - इति एतद् गुह्यतमं गोप्यतमम्, अत्यन्त-रहस्यं इत्य् एतत् । किं तत् ? शास्त्रम् । यद्य् अपि गीताख्यं समस्तम् शास्त्रम् उच्यते, तथाप्य् अयम् एवाध्याय इह शास्त्रम् इत्य् उच्यते स्तुत्य्-अर्थं प्रकरणात् । सर्वो हि गीता-शास्त्रार्थो ऽस्मिन् अध्याये समासेन उक्तः । न केवलं गीता-शास्त्रार्थ एव, किंतु सर्वश् च वेदार्थ इह परिसमाप्तः । यस् तं वेद स वेद-वित् [गीता १५।१] वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५।१५] इति चोक्तम् । इदम् उक्तं कथितं मया हे ऽनघ अपाप ! एतच् छास्त्रं यथा-दर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् नान्यथा । कृत-कृत्यश् च भारत कृतं कृत्यं कर्तव्यं येन स कृत-कृत्यः । विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेद् इत्य् अर्थः । न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते [गीता ४।३३] इति चोक्तम् । एतद् धि जन्म-सामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत् कृत-कृत्यो हि द्विजो भवति नान्यथा ॥ [मनु १२।९३] इति च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थस् त्वं भारतेति
asmin adhyāye bhagavat-tattva-jñānaṃ mokṣa-phalam uktvā, atha idānīṃ tat stauti - iti etad guhyatamaṃ gopyatamam, atyanta-rahasyaṃ ity etat | kiṃ tat ? śāstram | yady api gītākhyaṃ samastam śāstram ucyate, tathāpy ayam evādhyāya iha śāstram ity ucyate stuty-arthaṃ prakaraṇāt | sarvo hi gītā-śāstrārtho 'smin adhyāye samāsena uktaḥ | na kevalaṃ gītā-śāstrārtha eva, kiṃtu sarvaś ca vedārtha iha parisamāptaḥ | yas taṃ veda sa veda-vit [gītā 15.1] vedaiś ca sarvair aham eva vedyaḥ [gītā 15.15] iti coktam | idam uktaṃ kathitaṃ mayā he 'nagha apāpa ! etac chāstraṃ yathā-darśitārthaṃ buddhvā buddhimān syāt bhavet nānyathā | kṛta-kṛtyaś ca bhārata kṛtaṃ kṛtyaṃ kartavyaṃ yena sa kṛta-kṛtyaḥ | viśiṣṭa-janma-prasūtena brāhmaṇena yat kartavyaṃ tat sarvaṃ bhagavat-tattve vidite kṛtaṃ bhaved ity arthaḥ | na cānyathā kartavyaṃ parisamāpyate kasyacid ity abhiprāyaḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate [gītā 4.33] iti coktam | etad dhi janma-sāmagryaṃ brāhmaṇasya viśeṣataḥ | prāpyaitat kṛta-kṛtyo hi dvijo bhavati nānyathā || [manu 12.93] iti ca mānavaṃ vacanam | yataḥ etat paramārthatattvaṃ mattaḥ śrutavān asi, ataḥ kṛtārthas tvaṃ bhārateti