14.22 The Blessed Lord said When light, activity and delusion are present, he hates them not, nor does he long for them when they are absent.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
श्रीभगवानुवाच | प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||
śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||
BG 14.22
Audio
Translations & commentaries(4)
Sūtra — Translation
।।14.22।। श्रीभगवान् ने कहा -- हे पाण्डव ! (ज्ञानी पुरुष) प्रकाश, प्रवृत्ति और मोह के प्रवृत्त होने पर भी उनका द्वेष नहीं करता तथा निवृत्त होने पर उनकी आकांक्षा नहीं करता है।।
गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टो ऽस्मिन् श्लोके प्रश्न-द्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति तत् शृणु - प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहम् एव च तमःकार्यम् इत्य् एतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि - मम तामसः प्रत्ययो जातः, तेनाहं मूढः । तथा राजसी प्रवृत्तिर् मम उत्पन्ना दुःखात्मिका, तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् । कष्टं मम वर्तते यो ऽयं मत्स्वरूपावस्थानात् भ्रंशः । तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सजयन् बध्नातीति तानि द्वेष्ट्य् असम्यग्-दर्शित्वेन । तत् एवं गुणातीतो न द्वेष्टि संप्रवृत्तानि । यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षतीत्य् अर्थः । एतत् न परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थम् एव एतत् लक्षणम् । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति
guṇātītasya lakṣaṇaṃ guṇātītatvopāyaṃ cārjunena pṛṣṭo 'smin śloke praśna-dvayārthaṃ prativacanaṃ bhagavān uvāca | yat tāvat kair liṅgair yukto guṇātīto bhavatīti tat śṛṇu - prakāśaṃ ca sattvakāryaṃ pravṛttiṃ ca rajaḥkāryaṃ moham eva ca tamaḥkāryam ity etāni na dveṣṭi saṃpravṛttāni samyagviṣayabhāvena udbhūtāni - mama tāmasaḥ pratyayo jātaḥ, tenāhaṃ mūḍhaḥ | tathā rājasī pravṛttir mama utpannā duḥkhātmikā, tenāhaṃ rajasā pravartitaḥ pracalitaḥ svarūpāt | kaṣṭaṃ mama vartate yo 'yaṃ matsvarūpāvasthānāt bhraṃśaḥ | tathā sāttviko guṇaḥ prakāśātmā māṃ vivekitvam āpādayan sukhe ca sajayan badhnātīti tāni dveṣṭy asamyag-darśitvena | tat evaṃ guṇātīto na dveṣṭi saṃpravṛttāni | yathā ca sāttvikādipuruṣaḥ sattvādikāryāṇi ātmānaṃ prati prakāśya nivṛttāni kāṅkṣati, na tathā guṇātīto nivṛttāni kāṅkṣatīty arthaḥ | etat na parapratyakṣaṃ liṅgam | kiṃ tarhi ? svātmapratyakṣatvāt ātmārtham eva etat lakṣaṇam | na hi svātmaviṣayaṃ dveṣamākāṅkṣāṃ vā paraḥ paśyati