14.16 The fruit of good action, they say, is Sattvic and pure, verily the fruit of Rajas is pain, and ignorance is the fruit of Tamas.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१४-१६||
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||
BG 14.16
Audio
Translations & commentaries(4)
Sūtra — Translation
।।14.16।। शुभ कर्म का फल सात्विक और निर्मल कहा गया है; रजोगुण का फल दु;ख और तमोगुण का फल अज्ञान है।।
अतीत-श्लोकार्थस्यैव संक्षेप उच्यते - कर्मणः सुकृतस्य सात्त्विकस्य इत्य् अर्थः, आहुः शिष्टः सात्त्विकम् एव निर्मलं फलम् इति । रजसस् तु फलं दुःखं राजसस्य कर्मण इत्य् अर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात्, राजसम् एव । तथा अज्ञानं तमसस् तामसस्य कर्मणो ऽधर्मस्य पूर्ववत्
atīta-ślokārthasyaiva saṃkṣepa ucyate - karmaṇaḥ sukṛtasya sāttvikasya ity arthaḥ, āhuḥ śiṣṭaḥ sāttvikam eva nirmalaṃ phalam iti | rajasas tu phalaṃ duḥkhaṃ rājasasya karmaṇa ity arthaḥ, karmādhikārāt phalam api duḥkham eva, kāraṇānurūpyāt, rājasam eva | tathā ajñānaṃ tamasas tāmasasya karmaṇo 'dharmasya pūrvavat