13.9 Indifference to the objects of the senses and also absence of egoism; perception of (or reflection on) the evil in birth, death, old age, sickness and pain.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
इन्द्रियार्थेषु वैराग्यमनहंकार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||
indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||
BG 13.9
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.9।। इन्द्रियों के विषय के प्रति वैराग्य, अहंकार का अभाव, जन्म, मृत्यु, वृद्धवस्था, व्याधि और दुख में दोष दर्शन...৷৷.।।
असक्तिः सक्तिः सङ्ग-निमित्तेषु विषयेषु प्रीति-मात्रम्, तद्-अभावो ऽसक्तिः । अनभिष्वङ्गो ऽभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्ति-विशेष एवानन्यात्म-भावना-लक्षणः । यथान्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी, दुःखी च, जीवति मृते वाहम् एव जीवामि मरिष्यामि चेति । क्व ? इत्य् आह - पुत्र-दार-गृहादिषु । पुत्रेषु दारेषु गृहेष्व् आदि-ग्रहणाद् अन्येष्व् अप्य् अत्यन्तेष्टेषु दास-वर्गादिषु । तच् चोभयं ज्ञानार्थत्वाज् ज्ञानम् उच्यते । नित्यं च सम-चित्तत्वं तुल्य-चित्तता । क्व ? इष्टानिष्टोपपत्तिष्व् इष्टानाम् अनिष्टानां चोपपत्तयः संप्राप्तयस् तास्व् इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्य-चित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु । तच् चैतन् नित्यं सम-चित्तत्वं ज्ञानम्
asaktiḥ saktiḥ saṅga-nimitteṣu viṣayeṣu prīti-mātram, tad-abhāvo 'saktiḥ | anabhiṣvaṅgo 'bhiṣvaṅgābhāvaḥ | abhiṣvaṅgo nāma āsakti-viśeṣa evānanyātma-bhāvanā-lakṣaṇaḥ | yathānyasmin sukhini duḥkhini vāham eva sukhī, duḥkhī ca, jīvati mṛte vāham eva jīvāmi mariṣyāmi ceti | kva ? ity āha - putra-dāra-gṛhādiṣu | putreṣu dāreṣu gṛheṣv ādi-grahaṇād anyeṣv apy atyanteṣṭeṣu dāsa-vargādiṣu | tac cobhayaṃ jñānārthatvāj jñānam ucyate | nityaṃ ca sama-cittatvaṃ tulya-cittatā | kva ? iṣṭāniṣṭopapattiṣv iṣṭānām aniṣṭānāṃ copapattayaḥ saṃprāptayas tāsv iṣṭāniṣṭopapattiṣu nityam eva tulya-cittatā | iṣṭopapattiṣu na hṛṣyati, na kupyati cāniṣṭopapattiṣu | tac caitan nityaṃ sama-cittatvaṃ jñānam