13.5 Sages have sung in many ways, in various distinctive chants and also in the suggestive words indicative of the Absolute, full of reasoning and decisive.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||
BG 13.5
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.5।। (क्षेत्र-क्षेत्रज्ञ के विषय में) ऋषियों द्वारा विभिन्न और विविध छन्दों में बहुत प्रकार से गाया गया है, तथा सम्यक् प्रकार से निश्चित किये हुये युक्तियुक्त ब्रह्मसूत्र के पदों द्वारा (अर्थात् ब्रह्म के सूचक शब्दों द्वारा) भी (वैसे ही कहा गया है)।।
स्तुत्याभिमुखीभूतायार्जुनायाह भगवान् - महा-भूतानि महान्ति च तानि सर्व-विकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि त्व् इन्द्रिय-गोचर-शब्देनाभिधायिष्यन्ते । अहंकारो महा-भूत-कारणम् अहं-प्रत्यय-लक्षणः । अहंकार-कारणं बुद्धिर् अध्यवसाय-लक्षणा । तत्-कारणम् अव्यक्तम् एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वर-शक्तिर् मम माया दुरत्यया इत्य् उक्तम् । एव-शब्दः प्रकृत्य्-अवधारणार्थ एतावत्य् एवाष्टधा भिन्ना प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्य्-उत्पादकत्वाद् बुद्धीन्द्रियाणि । वाक्-पाण्य्-आदीनि पञ्च कर्म-निर्वर्तकत्वात् कर्मेन्द्रियाणि । तानि दश । एकं च । किं तत् ? मन एकादशं संकल्पाद्यात्मकम् । पञ्च चेन्द्रिय-गोचराः शब्दादयो विषयाः । तान्य् एतानि सांख्याश् चतुर्-विंशति-तत्त्वान्य् आचक्षते
stutyābhimukhībhūtāyārjunāyāha bhagavān - mahā-bhūtāni mahānti ca tāni sarva-vikāra-vyāpakatvād bhūtāni ca sūkṣmāṇi | sthūlāni tv indriya-gocara-śabdenābhidhāyiṣyante | ahaṃkāro mahā-bhūta-kāraṇam ahaṃ-pratyaya-lakṣaṇaḥ | ahaṃkāra-kāraṇaṃ buddhir adhyavasāya-lakṣaṇā | tat-kāraṇam avyaktam eva ca, na vyaktam avyaktam avyākṛtam īśvara-śaktir mama māyā duratyayā ity uktam | eva-śabdaḥ prakṛty-avadhāraṇārtha etāvaty evāṣṭadhā bhinnā prakṛtiḥ | ca-śabdo bheda-samuccayārthaḥ | indriyāṇi daśa, śrotrādīni pañca buddhy-utpādakatvād buddhīndriyāṇi | vāk-pāṇy-ādīni pañca karma-nirvartakatvāt karmendriyāṇi | tāni daśa | ekaṃ ca | kiṃ tat ? mana ekādaśaṃ saṃkalpādyātmakam | pañca cendriya-gocarāḥ śabdādayo viṣayāḥ | tāny etāni sāṃkhyāś catur-viṃśati-tattvāny ācakṣate