13.23 The Supreme Soul in this body is also called the spectator, the permitter, the supporter, the enjoyer, the great Lord and the Supreme Self.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||
BG 13.23
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.23।। परम पुरुष ही इस देह में उपद्रष्टा, अनुमन्ता ,भर्ता, भोक्ता, महेश्वर और परमात्मा कहा जाता है।।
तम् एतं यथोक्त-लक्षणम् आत्मानम् - य एवं यथोक्त-प्रकारेण वेत्ति पुरुषं साक्षाद् आत्म-भावेन "अयम् अहम् अस्मि" इति प्रकृतिं च यथोक्ताम् अविद्या-लक्षणां गुणैः स्व-विकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्व-प्रकारेण वर्तमानो ऽपि स भूयः पुनः पतिते ऽस्मिन् विद्वच्-छरीरे देहान्तराय नाभिजायते नोत्पद्यते, देहान्तरं न गृह्णातीत्य् अर्थः । अपि-शब्दात् किम् उ वक्तव्यं ? स्व-वृत्त-स्थो न जायते इत्य् अभिप्रायः ॥ ननु, यद्य् अपि ज्ञानोत्पत्त्य्-अनन्तरं पुनर्-जन्माभाव उक्तः, तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तर-काल-भाविनां च यानि चातिक्रान्तानेक-जन्म-कृतानि तेषां च फलम् अदत्त्वा नाशो न युक्त इति । स्युस् त्रीणि जन्मानि कृत-विप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्ध-जन्मनां कर्मणाम् । न च कर्मणां विशेषो ऽवगम्यते । तस्मात् त्रि-प्रकाराण्य् अपि कर्माणि त्रीणि जन्मान्य् आरभेरन् । संहतानि वा सर्वाण्य् एकं जन्मारभेरन् । अन्यथा कृत-विनाशे सति सर्वत्रानाश्वास-प्रसङ्गः, शास्त्रानर्थक्यं च स्यात् । इत्य् अतः इदम् अयुक्तम् उक्तम् न स भूयो ऽभिजायते इति । न । क्षीयन्ते चास्य कर्माणि [मुण्डु २।२।८], ब्रह्म वेद ब्रह्मैव भवति [मुण्डु ३।२।९], तस्य तावद् एव चिरम् [छाउ ६।१४।२], इषीका-तूलवत् सर्वाणि कर्माणि प्रदूयन्ते [छाउ ५।२४।३] इत्य् आदि-श्रुति-शतेभ्य उक्तो विदुषः सर्व-कर्म-दाहः । इहापि चोक्तो यथैधांसि [गीता ४।३७] इत्य् आदिना सर्व-कर्म-दाहः । वक्ष्यति चोपपत्तेश् च । अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् । बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [म्भ् ३।२००।१०] इति च । अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् । न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः । न । सर्व-कर्माणीति विशेषणात् । ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न । संकोचे कारणानुपपत्तेः । यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् । यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत एव । यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति । पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम्
tam etaṃ yathokta-lakṣaṇam ātmānam - ya evaṃ yathokta-prakāreṇa vetti puruṣaṃ sākṣād ātma-bhāvena "ayam aham asmi" iti prakṛtiṃ ca yathoktām avidyā-lakṣaṇāṃ guṇaiḥ sva-vikāraiḥ saha nivartitām abhāvam āpāditāṃ vidyayā, sarvathā sarva-prakāreṇa vartamāno 'pi sa bhūyaḥ punaḥ patite 'smin vidvac-charīre dehāntarāya nābhijāyate notpadyate, dehāntaraṃ na gṛhṇātīty arthaḥ | api-śabdāt kim u vaktavyaṃ ? sva-vṛtta-stho na jāyate ity abhiprāyaḥ || nanu, yady api jñānotpatty-anantaraṃ punar-janmābhāva uktaḥ, tathāpi prāg jñānotpatteḥ kṛtānāṃ karmaṇām uttara-kāla-bhāvināṃ ca yāni cātikrāntāneka-janma-kṛtāni teṣāṃ ca phalam adattvā nāśo na yukta iti | syus trīṇi janmāni kṛta-vipraṇāśo hi na yukta iti, yathā phale pravṛttānām ārabdha-janmanāṃ karmaṇām | na ca karmaṇāṃ viśeṣo 'vagamyate | tasmāt tri-prakārāṇy api karmāṇi trīṇi janmāny ārabheran | saṃhatāni vā sarvāṇy ekaṃ janmārabheran | anyathā kṛta-vināśe sati sarvatrānāśvāsa-prasaṅgaḥ, śāstrānarthakyaṃ ca syāt | ity ataḥ idam ayuktam uktam na sa bhūyo 'bhijāyate iti | na | kṣīyante cāsya karmāṇi [muṇḍu 2.2.8], brahma veda brahmaiva bhavati [muṇḍu 3.2.9], tasya tāvad eva ciram [chāu 6.14.2], iṣīkā-tūlavat sarvāṇi karmāṇi pradūyante [chāu 5.24.3] ity ādi-śruti-śatebhya ukto viduṣaḥ sarva-karma-dāhaḥ | ihāpi cokto yathaidhāṃsi [gītā 4.37] ity ādinā sarva-karma-dāhaḥ | vakṣyati copapatteś ca | avidyā-kāma-kleśa-bīja-nimittāni hi karmāṇi janmāntarāṅkuram ārabhante | ihāpi ca sāhaṃkārābhisaṃdhīni karmāṇi phalārambhakāṇi, netarāṇīti tatra tatra bhagavatoktam | bījāny agny-upadagdhāni na rohanti yathā punaḥ | jñāna-dagdhais tathā kleśair nātmā saṃpadyate punaḥ [mbh 3.200.10] iti ca | astu tāvaj jñānotpatty-uttara-kāla-kṛtānāṃ karmaṇāṃ jñānena dāhaḥ, jñāna-saha-bhāvitvāt | na tv iha janmani jñānotpatteḥ prāk kṛtānāṃ karmaṇām atīta-janma-kṛtānāṃ ca dāho yuktaḥ | na | sarva-karmāṇīti viśeṣaṇāt | jñānottara-kāla-bhāvinām eva sarva-karmaṇām iti cet, na | saṃkoce kāraṇānupapatteḥ | yat tūktam yathā vartamāna-janmārambhakāṇi karmāṇi na kṣīyante phala-dānāya pravṛttāny eva saty api jñāne, tathānārabdha-phalānām api karmaṇāṃ kṣayo na yukta iti, tad asat | katham ? teṣāṃ mukteṣuvat pravṛtta-phalatvāt | yathā pūrvaṃ lakṣya-vedhāya mukta iṣuḥ dhanuṣo lakṣya-vedhottara-kālam api ārabdha-vega-kṣayāt patanenaiva nivartate, evaṃ śarīrārambhakaṃ karma śarīra-sthiti-prayojane nivṛtte 'pi, ā saṃskāra-vega-kṣayāt pūrvavat vartata eva | yathā sa eva iṣuḥ pravṛtti-nimittānārabdha-vegas tv amukto dhanuṣi prayukto 'pi upasaṃhriyate, tathānārabdha-phalāni karmāṇi svāśraya-sthāny eva jñānena nirbījī-kriyanta iti | patite 'smin vidvac-charīre na sa bhūyo 'bhijāyate iti yuktam evoktam iti siddham