Sant Seva ParishadSant Seva ParishadSSP · sant seva

Bhagavad Gita

श्रीमद्भगवद्गीता

मूल श्लोकः

श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

BG 13.2

Audio
Translations & commentaries(4)
Show:

Sūtra Translation

SūtraSwami Sivananda· EN

13.2 The Blessed Lord said This body, O Arjuna, is called the field; he who knows it is called the knower of the field, by those who know of them.

SūtraSwami Tejomayananda· HI

।।13.2।। श्रीभगवान् ने कहा -- हे कौन्तेय ! यह शरीर क्षेत्र कहा जाता है और इसको जो जानता है, उसे तत्त्वज्ञ जन, क्षेत्रज्ञ कहते हैं।।

SūtraShankaracharya· SA

एवं क्षेत्र-क्षेत्रज्ञौ उक्तौ । किम् एतावन्-मात्रेण ज्ञानेन ज्ञातव्यौ? इति नेत्य् उच्यते - क्षेत्रज्ञं यथोक्त-लक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्व-क्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादि-स्तम्ब-पर्यन्तानेक-क्षेत्रोपाधि-प्रविभक्तः । तं निरस्त-सर्वोपाधि-भेदं सद्-असद्-आदि-शब्द-प्रत्ययागोचरं विद्धीत्य् अभिप्रायः । हे भारत ! यस्मात् क्षेत्र-क्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञान-गोचरम् अन्यद् अवशिष्टम् अस्ति, तस्मात् क्षेत्र-क्षेत्रज्ञयोर् ज्ञेय-भूतयोर् यज् ज्ञानं क्षेत्र-क्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तज् ज्ञानं सम्यग्-ज्ञानम् इति मतम् अभिप्रायः ममेश्वरस्य विष्णोः ॥ ननु सर्व-क्षेत्रेष्व् एक एवेश्वरः । नान्यस् तद्-व्यतिरिक्तो भोक्ता विद्यते चेत्, तत ईश्वरस्य संसारित्वं प्राप्तम् । ईश्वर-व्यतिरेकेण वा संसारिणो ऽन्यस्याभावात् संसाराभाव-प्रसङ्गः । तच् चोभयम् अनिष्टम्, बन्ध-मोक्ष-तद्-धेतु-शास्त्रानर्थक्य-प्रसङ्गात्, प्रत्यक्षादि-प्रमाण-विरोधाच् च । प्रत्यक्षेण तावत् सुख-दुःख-तद्-धेतु-लक्षणः संसार उपलभ्यते । जगद्-वैचित्र्योपलब्धे च धर्माधर्म-निमित्तः संसारो ऽनुमीयते । सर्वम् एतद् अनुपपन्नम् आत्मेश्वरैकत्वे । न । ज्ञानाज्ञानयोर् अन्यत्वेनोपपत्तेः । दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता [कठु १।२।४] तथा तयोर् विद्याविद्या-विषययोः फल-भेदो ऽपि विरुद्धो निर्दिष्टः - श्रेयश् च प्रेयश् च [कठु १।२।२] इति । विद्या-विषयः श्रेयः, प्रेयस् त्व् अविद्या-कार्यम् इति । तथा च व्यासः - द्वाव् इमाव् अथ पन्थानौ [म्भ् १२।२४१।६] इत्य् आदि, इमौ द्वाव् एव पन्थानाव् इत्य् आदि च । इह च द्वे निष्ठे उक्ते । अविद्या च सह कार्येण विद्यया हातव्येति श्रुति-स्मृति-न्यायेभ्यो ऽवगम्यते । श्रुतयस् तावत् - इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन् महती विनष्टिः [केनौ २।५], तम् एवं विद्वान् अमृत इह भवति [तैत्ता ३।१२], नान्यः पन्था विद्यते ऽयनाय [श्वेतु ३।८] विद्वान् न बिभेति कुतश्चन [तैत्तु २।९] । अविदुषस् तु - अथ तस्य भयं भवति [तैत्तु २।७], अविद्यायाम् अन्तरे वर्तमानाः [कठु १।२।५], ब्रह्म वेद ब्रह्मैव भवति [मुण्डु ३।२।९], अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद यथा पशुर् एवं स देवानाम् [बौ १।४।१०] । आत्मविद् यः स इदं सर्वं भवति [बौ १।४।१०], यदा चर्मवत् [श्वेतु ६।२०] इत्य् आद्याः सहस्रशः । स्मृतयश् च - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५।२५], इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः [गीता ५।१९], समं पश्यन् हि सर्वत्र [गीता १३।२९] इत्य् आद्याः । न्यायतश् च - सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस् तत्र पतन्ति केचिज् ज्ञाने फलं पश्य यथा-विशिष्टम् ॥ [म्भ् १२।२०१।१७] इति । तथा च - देहादिषु आत्म-बुद्धिर् अविद्वान् राग-द्वेषादि-प्रयुक्तो धर्माधर्मानुष्ठान-कृज् जायते म्रियते चेत्य् अवगम्यते । देहादि-व्यतिरिक्तात्म-दर्शिनो राग-द्वेषादि-प्रहाणापेक्ष-धर्माधर्म-प्रवृत्त्य्-उपशमान् मुच्यन्त इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः । तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतो ऽविद्या-कृतोपाधि-भेदतः संसारित्वम् इव भवति, यथा देहाद्य्-आत्मत्वम् आत्मनः । सर्व-जन्तूनां हि प्रसिद्धो देहादिष्व् अनात्मसु आत्म-भावो निश्चितो ऽविद्या-कृतः, यथा स्थाणौ पुरुष-निश्चयः । न चैतावता पुरुष-धर्मः स्थाणोर् भवति, स्थाणु-धर्मो वा पुरुषस्य । तथा न चैतन्य-धर्मो देहस्य, देह-धर्मो वा चेतनस्य सुख-दुःख-मोहात्मकत्वादिर् आत्मनो न युक्तः । अविद्या-कृतत्वाविशेषात्, जरा-मृत्युवत् । न, अतुल्यत्वात् । इति चेत् - स्थाणु-पुरुषौ ज्ञेयाव् एव सन्तौ ज्ञात्रान्योन्यस्मिन्न् अध्यस्ताव् अविद्यया । देहात्मनोस् तु ज्ञेय-ज्ञात्रोर् एव इतरेतराध्यासः, इति न समो दृष्टान्तः । अतो देह-धर्मो ज्ञेयो ऽपि ज्ञातुर् आत्मनो भवतीति चेत्, न । अचैतन्यादि-प्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख-दुःख-मोहेच्छादयो ज्ञातुर् भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनो भवन्त्य् अविद्याध्यारोपिताः, जरा-मरणादयस् तु न भवन्तीति विशेष-हेतुर् वक्तव्यः । न भवन्तीत्य् अस्त्य् अनुमानम् - अविद्याध्यारोपितत्वाज् जरा-मरणादिवद् इति, हेयत्वात्, उपादेयत्वाच् चेत्य् आदि । तत्रैवं सति, कर्तृत्व-भोक्तृत्व-लक्षणः संसारो ज्ञेय-स्थो ज्ञातर्य् अविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद् दुष्यति । यथा बालैर् अध्यारोपितेनाकाशस्य तल-मलिनत्वादिना । एवं च सति, सर्व-क्षेत्रेष्व् अपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्व-गन्ध-मात्रम् अपि नाशङ्कयम् । न हि क्वचिद् अपि लोके ऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो ऽपकारो वा दृष्टः । यत् तूक्तम् - न समो दृष्टान्त इति, तद् असत् । कथम् ? अविद्याध्यास-मात्रं हि दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यं विवक्षितम् । तन् न व्यभिचरति । यत् तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्य् अनैकान्तिकत्वं दर्शितं जरादिभिः ॥ अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न । अविद्यायास् तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वाद् अविद्या विपरीत-ग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा । विवेक-प्रकाश-भावे तद्-अभावात् तामसे चावरणात्मके तिमिरादि-दोषे सत्य् अग्रहणादेर् अविद्या-त्रयस्य उपलब्धेः ॥ अत्राह - एवं तर्हि ज्ञातृ-धर्मो ऽविद्या । न । करणे चक्षुषि तैमिरिकत्वादि-दोषोपलब्धेः । यत् तु मन्यसे - ज्ञातृ-धर्मो ऽविद्या, तद् एव चाविद्या-धर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् । तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञः, न संसारीत्य् एतद् अयुक्तम् इति, तन् न । यथा करणे चक्षुषि विपरीत-ग्राहकादि-दोषस्य दर्शनात् । न विपरीतादि-ग्रहणं तन्-निमित्तं वा तैमिरिकत्वादि-दोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे ऽपनीते ग्रहीतुर् अदर्शनान् न ग्रहीतुर् धर्मो यथा । तथा सर्वत्रैवाग्रहण-विपरीत-संशय-प्रत्ययास् तन्-निमित्ताः करणस्यैव कस्यचित् भवितुम् अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच् च तेषां प्रदीप-प्रकाशवन् न ज्ञातृ-धर्मत्वम् । संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्त-संवेद्यत्वम् । सर्व-करण-वियोगे च कैवल्ये सर्व-वादिभिर् अविद्यादि-दोषवत्-त्वानभ्युपगमात् । आत्मनो यदि क्षेत्रज्ञस्याग्न्य्-उष्णवत् स्वो धर्मः, ततो न कदाचिद् अपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत् सर्व-गतस्यामूर्तस्य आत्मनः केनचित् संयोग-वियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यम् एवेश्वरत्वम् । अनादित्वान् निर्गुणत्वाद् [गीता १३।३२] इत्य् आदीश्वर-वचनाच् च ॥ नन्व् एवं सति संसार-संसारित्वाभावे शास्त्रानर्थक्यादि-दोषः स्याद् इति चेत्, न । सर्वैर् अभ्युपगतत्वात् । सर्वैर् ह्य् आत्म-वादिभिर् अभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति । कथम् अभ्युपगत इति ? मुक्तात्मनां हि संसार-संसारित्व-व्यवहाराभावः सर्वैर् एव आत्म-वादिभिर् इष्यते । न च तेषां शास्त्रानर्थक्यादि-दोष-प्राप्तिर् अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु । अविद्या-विषये चार्थवत्त्वम् - यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्य्-अर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ॥ नन्व् आत्मनो बन्ध-मुक्तावस्थे परमार्थत एव वस्तु-भूते द्वैतिनां सर्वेषाम् । अतो हेयोपादेय-तत्-साधन-सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्या-कृतत्वाद् बन्धावस्थायाश् चात्मनो ऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न । आत्मनो ऽवस्था-भेदानुपपत्तेः । यदि तावत् आत्मनो बन्ध-मुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा । युगपत् तावत् विरोधान् न संभवतः स्थिति-गती इवैकस्मिन् । क्रम-भावित्वे च, निर्निमित्तत्वं स-निमित्तत्वं वा ? निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गः । स-निमित्तत्वे च स्वतो ऽभावात् अपरमार्थत्व-प्रसङ्गः । तथा च सत्य् अभ्युपगम-हानिः । किं च, बन्ध-मुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्य् अन्तवती च । तच् च प्रमाण-विरुद्धम् । तथा मोक्षावस्थादिमत्य् अनन्ता च प्रमाण-विरुद्धैवाभ्युपगम्यते । न चावस्थावतो ऽवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम् । अथानित्यत्व-दोष-परिहाराय बन्ध-मुक्तावस्था-भेदो न कल्प्यते । अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादि-दोषो ऽपरिहार्य एव । इति समानत्वान् नाद्वैत-वादिना परिहर्तव्यो दोषः ॥ न च शास्त्रानर्थक्यम्, यथा-प्रसिद्धाविद्वत्-पुरुष-विषयत्वाच् छास्त्रस्य । अविदुषां हि फल-हेत्वोर् अनात्मनोर् आत्म-दर्शनम्, न विदुषाम् । विदुषां हि फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शने सति, तयोर् अहम् इत्य् आत्म-दर्शनानुपपत्तेः । न ह्य् अत्यन्त-मूढ उन्मत्तादिर् अपि जलाग्न्योश् छाया-प्रकाशयोर् वैकात्म्यं पश्यति । किम् उत विवेकी । तस्मान् न विधि-प्रतिषेध-शास्त्रं तावत् फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शिनो भवति । न हि "देवदत्त, त्वम् इदं कुरु" इति कस्मिंश्चित् कर्मणि नियुक्ते, "विष्णुमित्रो ऽहं नियुक्तः" इति तत्र-स्थो नियोगं सृण्वन्न् अपि प्रतिपद्यते । वियोग-विषय-विवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः । तथा फल-हेत्वोर् अपि ॥ ननु प्राकृत-संबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थ-विषया - फल-हेतुभ्याम् अन्यात्म-विषय-दर्शने ऽपि सति - इष्ट-फल-हेतौ प्रवर्तितो ऽस्मि, अनिष्ट-फल-हेतोश् च निवर्तितो ऽस्मीति । यथा पितृ-पुत्रादीनाम् इतरेतरात्मान्यत्व-दर्शने सत्य् अप्य् अन्योन्य-नियोग-प्रतिषेधार्थ-प्रतिपत्तिः । न । व्यतिरिक्तात्म-दर्शन-प्रतिपत्तेः प्राग् एव फल-हेत्वोर् आत्माभिमानस्य सिद्धत्वात् । प्रतिपन्न-नियोग-प्रतिषेधार्थो हि फल-हेतुभ्याम् आत्मनो ऽन्यत्वं प्रतिपद्यते, न पूर्वम् । तस्माद् विधि-प्रतिषेध-शास्त्रम् अविद्वद्-विषयम् इति सिद्धम् ॥ ननु स्वर्ग-कामो यजेत [अप्।श्र्।स्। १०।२।१] न कलञ्जं भक्षयेद् इत्य् आदाव् आत्म-व्यतिरेक-दर्शिनाम् अप्रवृत्तौ, केवल-देहाद्य्-आत्म-दृष्टीनां च । अतः कर्तुर् अभावाच् छास्त्रानर्थक्यम् इति चेत्, न । यथा-प्रसिद्धित एव प्रवृत्ति-निवृत्त्य्-उपपत्तेः । ईश्वर-क्षेत्रज्ञैकत्व-दर्शी ब्रह्म-वित् तावन् न प्रवर्तते । तथा नैरात्म्यवाद्य् अपि नास्ति पर-लोक इति न प्रवर्तते । यथा-प्रसिद्धितस् तु विधि-प्रतिषेध-शास्त्र-श्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्म-विशेषानभिज्ञः कर्म-फल-संजात-तृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां न प्रत्यक्षम् । अतो न शास्त्रानर्थक्यम् ॥ विवेकिनाम् अप्रवृत्ति-दर्शनात् तद्-अनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न । कस्यचिद् एव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्यात्, यथेदानीम् । न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादि-दोष-तन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्ति-दर्शनात्, स्वाभाव्याच् च प्रवृत्तेः । स्वभावस् तु प्रवर्तते [गीता ५।१४] इति हि उक्तम् ॥ तस्मात् अविद्या-मात्रं संसारो यथा-दृष्ट-विषय एव । न क्षेत्रज्ञस्य केवलस्याविद्या तत्-कार्यं च । न च मिथ्या-ज्ञानं परमार्थ-वस्तु दूषयितुं समर्थम् । न ह्य् ऊषर-देशं स्नेहेन पङ्की-कर्तुं शक्नोति मरीच्य्-उदकम् । तथाविद्या क्षेत्रज्ञस्य न किंचित् कर्तुं शक्नोति । अतश् चेदम् उक्तम् - क्षेत्रज्ञं चापि मां विद्धि । अज्ञानेनावृतं ज्ञानम् [गीता ५।१५] इति च ॥ अथ किम् इदं संसारिणाम् इवाहम् एवम् ममैवेदम् इति पण्डितानाम् अपि ? सृणु । इदं तत् पाण्डित्यम्, यत् क्षेत्र एवात्म-दर्शनम् । यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुस् ततो न भोगं कर्म वाकाङ्क्षेयुर् मम स्याद् इति । विक्रियैव भोग-कर्मणी । अथैवं सति, फलार्थित्वाद् अविद्वान् प्रवर्तते । विदुषः पुनर् अविक्रियात्म-दर्शिनः फलार्थित्वाभावात् प्रवृत्त्य्-अनुपपत्तौ कार्य-करण-संघात-व्यापारोपरमे निवृत्तिर् उपचर्यते ॥ इदं चान्यत् पाण्डित्यं कस्यचिद् अस्तु - क्षेत्रज्ञ ईश्वर एव । क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश् च मम कर्तव्यः क्षेत्र-क्षेत्रज्ञ-विज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्-स्वरूपावस्थानेनेति । यश् चैवं बुध्यते, यश् च बोधयति, नासौ क्षेत्रज्ञ इति । एवं मन्वानो यः स पण्डितापशब्दः । संसार-मोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति । आत्महा स्वयं मूढो ऽन्यां च व्यामोहयति शास्त्रार्थ-संप्रदाय-रहितत्वात्, श्रुत-हानिम् अश्रुत-कल्पनां च कुर्वन् । तस्मात् असंप्रदाय-वित् सर्व-शास्त्र-विद् अपि मूर्खवद् एव उपेक्षणीयः ॥ यत् तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति । क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग इति । एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर् वैलक्षण्याभ्युपगमाद् इति । कथम् ? अविद्या-परिकल्पित-दोषेण तद्-विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टन्तो दर्शितः - मरीच्य्-अम्भसा ऊषर-देशो न पङ्कीक्रियत इति । संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग-दोषो ऽपि संसार-संसारिणोर् अविद्या-कल्पितत्वोपपत्त्या प्रत्युक्तः ॥ ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः । तत्-कृतं च सुखित्व-दुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न । ज्ञेयस्य क्षेत्र-धर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्-कृत-दोषानुपपत्तेः । यावत् किंचित् क्षेत्रज्ञस्य दोष-जातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव, न क्षेत्रज्ञ-धर्मत्वम् । न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि हि संसर्गः स्यात्, ज्ञेयत्वम् एव नोपपद्येत । यद्य् आत्मनो धर्मो ऽविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते । कथं वा क्षेत्रज्ञ-धर्मः । ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्य् अवधारिते, अविद्या-दुःखित्वादेः क्षेत्रज्ञ-विशेषणत्वं क्षेत्रज्ञ-धर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते ऽविद्या-मात्रावष्टम्भात् केवलम् ॥ अत्राह - साविद्या कस्य ? इति । यस्य दृश्यते तस्यैव । कस्य दृश्यते ? इति । अत्रोच्यते - अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः । कथम् ? दृश्यते चेद् अविद्या, तद्वन्तम् अपि पश्यसि । न च तद्वत्य् उपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नो ऽर्थवान् भवति । ननु विषमो दृष्टान्तः । गवां तद्वतश् च प्रत्यक्षत्वात् तत्-संबन्धो ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथाविद्या तद्वांश् च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् । अप्रत्यक्षेणाविद्यावताविद्या-संबन्धे ज्ञाते, किं तव स्यात् ? अविद्याया अनर्थ-हेतुत्वात् परिहर्तव्या स्यात् । यस्याविद्या, स तां परिहरिष्यति । ननु ममैवाविद्या । जानासि तर्ह्य् अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्यक्षेण । अनुमानेनश् चेज् जानासि, कथं संबन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेय-भूतयाविद्यया तत्-काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुर् उपयुक्तत्वात् । न च ज्ञातुर् अविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्-विषयं संभवति । अनवस्था-प्राप्तेः । यदि ज्ञात्रापि ज्ञेय-संबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्य् अन्यः, तस्याप्य् अन्यः इत्य् अनवस्थापरिहार्या । यदि पुनर् अविद्या ज्ञेया, अन्यद् वा ज्ञेयं ज्ञेयम् एव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा चैवम्, अविद्या-दुःखित्वाद्यैर् न ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ॥ ननु अयम् एव दोषः, यत् दोषवत्-क्षेत्र-विज्ञातृत्वम् । न च विज्ञान-स्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णता-मात्रेणाग्नेस् तप्ति-क्रियोपचारः, तद्वत् । यथात्र भगवता क्रियाकारक-फलात्मत्वाभाव आत्मनि स्वत एव दर्शितः - अविद्याध्यारोपित एव क्रिया-कारकादिर् आत्मन्य् उपचर्यते । तथा तत्र तत्र य एनं वेत्ति हन्तारम् [गीता २।१९], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [गीता ३।२७], नादत्ते कस्यचित् पापम् [गीता ५।१५] इत्य् आदि-प्रकरणेषु दर्शितः । तथैव च व्याख्यातम् अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥ हन्त ! तर्ह्य् आत्मनि क्रिया-कारक-फलात्मतायाः स्वतो ऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्य् अविद्वत्-कर्तव्यान्य् एव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम्, एतद् एव च न हि देह-भृता शक्यम् इत्य् अत्र दर्शयिष्यामः । सर्व-शास्त्रार्थोपसंहार-प्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्य् अत्र विशेषतो दर्शयिष्यामः । अलम् इह बहु-प्रपञ्चनेन, इति उपसंह्रियते

SūtraShankaracharya· SA-ROMAN

evaṃ kṣetra-kṣetrajñau uktau | kim etāvan-mātreṇa jñānena jñātavyau? iti nety ucyate - kṣetrajñaṃ yathokta-lakṣaṇaṃ cāpi māṃ parameśvaram asaṃsāriṇaṃ viddhi jānīhi | sarva-kṣetreṣu yaḥ kṣetrajño brahmādi-stamba-paryantāneka-kṣetropādhi-pravibhaktaḥ | taṃ nirasta-sarvopādhi-bhedaṃ sad-asad-ādi-śabda-pratyayāgocaraṃ viddhīty abhiprāyaḥ | he bhārata ! yasmāt kṣetra-kṣetrajñeśvara-yāthātmya-vyatirekeṇa na jñāna-gocaram anyad avaśiṣṭam asti, tasmāt kṣetra-kṣetrajñayor jñeya-bhūtayor yaj jñānaṃ kṣetra-kṣetrajñau yena jñānena viṣayīkriyete, taj jñānaṃ samyag-jñānam iti matam abhiprāyaḥ mameśvarasya viṣṇoḥ || nanu sarva-kṣetreṣv eka eveśvaraḥ | nānyas tad-vyatirikto bhoktā vidyate cet, tata īśvarasya saṃsāritvaṃ prāptam | īśvara-vyatirekeṇa vā saṃsāriṇo 'nyasyābhāvāt saṃsārābhāva-prasaṅgaḥ | tac cobhayam aniṣṭam, bandha-mokṣa-tad-dhetu-śāstrānarthakya-prasaṅgāt, pratyakṣādi-pramāṇa-virodhāc ca | pratyakṣeṇa tāvat sukha-duḥkha-tad-dhetu-lakṣaṇaḥ saṃsāra upalabhyate | jagad-vaicitryopalabdhe ca dharmādharma-nimittaḥ saṃsāro 'numīyate | sarvam etad anupapannam ātmeśvaraikatve | na | jñānājñānayor anyatvenopapatteḥ | dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā [kaṭhu 1.2.4] tathā tayor vidyāvidyā-viṣayayoḥ phala-bhedo 'pi viruddho nirdiṣṭaḥ - śreyaś ca preyaś ca [kaṭhu 1.2.2] iti | vidyā-viṣayaḥ śreyaḥ, preyas tv avidyā-kāryam iti | tathā ca vyāsaḥ - dvāv imāv atha panthānau [mbh 12.241.6] ity ādi, imau dvāv eva panthānāv ity ādi ca | iha ca dve niṣṭhe ukte | avidyā ca saha kāryeṇa vidyayā hātavyeti śruti-smṛti-nyāyebhyo 'vagamyate | śrutayas tāvat - iha ced avedīd atha satyam asti na ced ihāvedīn mahatī vinaṣṭiḥ [kenau 2.5], tam evaṃ vidvān amṛta iha bhavati [taittā 3.12], nānyaḥ panthā vidyate 'yanāya [śvetu 3.8] vidvān na bibheti kutaścana [taittu 2.9] | aviduṣas tu - atha tasya bhayaṃ bhavati [taittu 2.7], avidyāyām antare vartamānāḥ [kaṭhu 1.2.5], brahma veda brahmaiva bhavati [muṇḍu 3.2.9], anyo 'sāv anyo 'ham asmīti na sa veda yathā paśur evaṃ sa devānām [bau 1.4.10] | ātmavid yaḥ sa idaṃ sarvaṃ bhavati [bau 1.4.10], yadā carmavat [śvetu 6.20] ity ādyāḥ sahasraśaḥ | smṛtayaś ca - ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ [gītā 5.25], ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ [gītā 5.19], samaṃ paśyan hi sarvatra [gītā 13.29] ity ādyāḥ | nyāyataś ca - sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti | ajñānatas tatra patanti kecij jñāne phalaṃ paśya yathā-viśiṣṭam || [mbh 12.201.17] iti | tathā ca - dehādiṣu ātma-buddhir avidvān rāga-dveṣādi-prayukto dharmādharmānuṣṭhāna-kṛj jāyate mriyate cety avagamyate | dehādi-vyatiriktātma-darśino rāga-dveṣādi-prahāṇāpekṣa-dharmādharma-pravṛtty-upaśamān mucyanta iti na kenacit pratyākhyātuṃ śakyaṃ nyāyataḥ | tatraivaṃ sati, kṣetrajñasyeśvarasyaiva sato 'vidyā-kṛtopādhi-bhedataḥ saṃsāritvam iva bhavati, yathā dehādy-ātmatvam ātmanaḥ | sarva-jantūnāṃ hi prasiddho dehādiṣv anātmasu ātma-bhāvo niścito 'vidyā-kṛtaḥ, yathā sthāṇau puruṣa-niścayaḥ | na caitāvatā puruṣa-dharmaḥ sthāṇor bhavati, sthāṇu-dharmo vā puruṣasya | tathā na caitanya-dharmo dehasya, deha-dharmo vā cetanasya sukha-duḥkha-mohātmakatvādir ātmano na yuktaḥ | avidyā-kṛtatvāviśeṣāt, jarā-mṛtyuvat | na, atulyatvāt | iti cet - sthāṇu-puruṣau jñeyāv eva santau jñātrānyonyasminn adhyastāv avidyayā | dehātmanos tu jñeya-jñātror eva itaretarādhyāsaḥ, iti na samo dṛṣṭāntaḥ | ato deha-dharmo jñeyo 'pi jñātur ātmano bhavatīti cet, na | acaitanyādi-prasaṅgāt | yadi hi jñeyasya dehādeḥ kṣetrasya dharmāḥ sukha-duḥkha-mohecchādayo jñātur bhavanti, tarhi, jñeyasya kṣetrasya dharmāḥ kecit ātmano bhavanty avidyādhyāropitāḥ, jarā-maraṇādayas tu na bhavantīti viśeṣa-hetur vaktavyaḥ | na bhavantīty asty anumānam - avidyādhyāropitatvāj jarā-maraṇādivad iti, heyatvāt, upādeyatvāc cety ādi | tatraivaṃ sati, kartṛtva-bhoktṛtva-lakṣaṇaḥ saṃsāro jñeya-stho jñātary avidyayādhyāropita iti, na tena jñātuḥ kiṃcid duṣyati | yathā bālair adhyāropitenākāśasya tala-malinatvādinā | evaṃ ca sati, sarva-kṣetreṣv api sato bhagavataḥ kṣetrajñasyeśvarasya saṃsāritva-gandha-mātram api nāśaṅkayam | na hi kvacid api loke 'vidyādhyastena dharmeṇa kasyacid upakāro 'pakāro vā dṛṣṭaḥ | yat tūktam - na samo dṛṣṭānta iti, tad asat | katham ? avidyādhyāsa-mātraṃ hi dṛṣṭānta-dārṣṭāntikayoḥ sādharmyaṃ vivakṣitam | tan na vyabhicarati | yat tu jñātari vyabhicaratīti manyase, tasyāpy anaikāntikatvaṃ darśitaṃ jarādibhiḥ || avidyāvattvāt kṣetrajñasya saṃsāritvam iti cet, na | avidyāyās tāmasatvāt | tāmaso hi pratyayaḥ, āvaraṇātmakatvād avidyā viparīta-grāhakaḥ, saṃśayopasthāpako vā, agrahaṇātmako vā | viveka-prakāśa-bhāve tad-abhāvāt tāmase cāvaraṇātmake timirādi-doṣe saty agrahaṇāder avidyā-trayasya upalabdheḥ || atrāha - evaṃ tarhi jñātṛ-dharmo 'vidyā | na | karaṇe cakṣuṣi taimirikatvādi-doṣopalabdheḥ | yat tu manyase - jñātṛ-dharmo 'vidyā, tad eva cāvidyā-dharmavattvaṃ kṣetrajñasya saṃsāritvam | tatra yad uktam īśvara eva kṣetrajñaḥ, na saṃsārīty etad ayuktam iti, tan na | yathā karaṇe cakṣuṣi viparīta-grāhakādi-doṣasya darśanāt | na viparītādi-grahaṇaṃ tan-nimittaṃ vā taimirikatvādi-doṣo grahītuḥ, cakṣuṣaḥ saṃskāreṇa timire 'panīte grahītur adarśanān na grahītur dharmo yathā | tathā sarvatraivāgrahaṇa-viparīta-saṃśaya-pratyayās tan-nimittāḥ karaṇasyaiva kasyacit bhavitum arhanti, na jñātuḥ kṣetrajñasya | saṃvedyatvāc ca teṣāṃ pradīpa-prakāśavan na jñātṛ-dharmatvam | saṃvedyatvād eva svātma-vyatirikta-saṃvedyatvam | sarva-karaṇa-viyoge ca kaivalye sarva-vādibhir avidyādi-doṣavat-tvānabhyupagamāt | ātmano yadi kṣetrajñasyāgny-uṣṇavat svo dharmaḥ, tato na kadācid api tena viyogaḥ syāt | avikriyasya ca vyomavat sarva-gatasyāmūrtasya ātmanaḥ kenacit saṃyoga-viyogānupapatteḥ, siddhaṃ kṣetrajñasya nityam eveśvaratvam | anāditvān nirguṇatvād [gītā 13.32] ity ādīśvara-vacanāc ca || nanv evaṃ sati saṃsāra-saṃsāritvābhāve śāstrānarthakyādi-doṣaḥ syād iti cet, na | sarvair abhyupagatatvāt | sarvair hy ātma-vādibhir abhyupagato doṣo naikena parihartavyo bhavati | katham abhyupagata iti ? muktātmanāṃ hi saṃsāra-saṃsāritva-vyavahārābhāvaḥ sarvair eva ātma-vādibhir iṣyate | na ca teṣāṃ śāstrānarthakyādi-doṣa-prāptir abhyupagatā | tathā naḥ kṣetrajñānām īśvaraikatve sati, śāstrānarthakyaṃ bhavatu | avidyā-viṣaye cārthavattvam - yathā dvaitināṃ sarveṣāṃ bandhāvasthāyām eva śāstrādy-arthavattvam, na muktāvasthāyām, evam || nanv ātmano bandha-muktāvasthe paramārthata eva vastu-bhūte dvaitināṃ sarveṣām | ato heyopādeya-tat-sādhana-sad-bhāve śāstrādy-arthavattvaṃ syāt | advaitināṃ punaḥ, dvaitasyāparamārthatvāt, avidyā-kṛtatvād bandhāvasthāyāś cātmano 'paramārthatve nirviṣayatvāt, śāstrādyānarthakyam iti cet, na | ātmano 'vasthā-bhedānupapatteḥ | yadi tāvat ātmano bandha-muktāvasthe, yugapat syātām, krameṇa vā | yugapat tāvat virodhān na saṃbhavataḥ sthiti-gatī ivaikasmin | krama-bhāvitve ca, nirnimittatvaṃ sa-nimittatvaṃ vā ? nirnimittatve 'nirmokṣa-prasaṅgaḥ | sa-nimittatve ca svato 'bhāvāt aparamārthatva-prasaṅgaḥ | tathā ca saty abhyupagama-hāniḥ | kiṃ ca, bandha-muktāvasthayoḥ paurvāparya-nirūpaṇāyāṃ bandhāvasthā pūrvaṃ prakalpyā, anādimaty antavatī ca | tac ca pramāṇa-viruddham | tathā mokṣāvasthādimaty anantā ca pramāṇa-viruddhaivābhyupagamyate | na cāvasthāvato 'vasthāntaraṃ gacchato nityatvam upapādayituṃ śakyam | athānityatva-doṣa-parihārāya bandha-muktāvasthā-bhedo na kalpyate | ato dvaitinām api śāstrānarthakyādi-doṣo 'parihārya eva | iti samānatvān nādvaita-vādinā parihartavyo doṣaḥ || na ca śāstrānarthakyam, yathā-prasiddhāvidvat-puruṣa-viṣayatvāc chāstrasya | aviduṣāṃ hi phala-hetvor anātmanor ātma-darśanam, na viduṣām | viduṣāṃ hi phala-hetubhyām ātmano 'nyatva-darśane sati, tayor aham ity ātma-darśanānupapatteḥ | na hy atyanta-mūḍha unmattādir api jalāgnyoś chāyā-prakāśayor vaikātmyaṃ paśyati | kim uta vivekī | tasmān na vidhi-pratiṣedha-śāstraṃ tāvat phala-hetubhyām ātmano 'nyatva-darśino bhavati | na hi "devadatta, tvam idaṃ kuru" iti kasmiṃścit karmaṇi niyukte, "viṣṇumitro 'haṃ niyuktaḥ" iti tatra-stho niyogaṃ sṛṇvann api pratipadyate | viyoga-viṣaya-vivekāgrahaṇāt tūpapadyate pratipattiḥ | tathā phala-hetvor api || nanu prākṛta-saṃbandhāpekṣayā yuktaiva pratipattiḥ śāstrārtha-viṣayā - phala-hetubhyām anyātma-viṣaya-darśane 'pi sati - iṣṭa-phala-hetau pravartito 'smi, aniṣṭa-phala-hetoś ca nivartito 'smīti | yathā pitṛ-putrādīnām itaretarātmānyatva-darśane saty apy anyonya-niyoga-pratiṣedhārtha-pratipattiḥ | na | vyatiriktātma-darśana-pratipatteḥ prāg eva phala-hetvor ātmābhimānasya siddhatvāt | pratipanna-niyoga-pratiṣedhārtho hi phala-hetubhyām ātmano 'nyatvaṃ pratipadyate, na pūrvam | tasmād vidhi-pratiṣedha-śāstram avidvad-viṣayam iti siddham || nanu svarga-kāmo yajeta [ap.śr.s. 10.2.1] na kalañjaṃ bhakṣayed ity ādāv ātma-vyatireka-darśinām apravṛttau, kevala-dehādy-ātma-dṛṣṭīnāṃ ca | ataḥ kartur abhāvāc chāstrānarthakyam iti cet, na | yathā-prasiddhita eva pravṛtti-nivṛtty-upapatteḥ | īśvara-kṣetrajñaikatva-darśī brahma-vit tāvan na pravartate | tathā nairātmyavādy api nāsti para-loka iti na pravartate | yathā-prasiddhitas tu vidhi-pratiṣedha-śāstra-śravaṇānyathānupapattyānumitātmāstitva ātma-viśeṣānabhijñaḥ karma-phala-saṃjāta-tṛṣṇaḥ śraddadhānatayā ca pravartate | iti sarveṣāṃ na pratyakṣam | ato na śāstrānarthakyam || vivekinām apravṛtti-darśanāt tad-anugāminām apravṛttau śāstrānarthakyam iti cet, na | kasyacid eva vivekopapatteḥ | anekeṣu hi prāṇiṣu kaścid eva vivekī syāt, yathedānīm | na ca vivekinam anuvartante mūḍhāḥ, rāgādi-doṣa-tantratvāt pravṛtteḥ, abhicaraṇādau ca pravṛtti-darśanāt, svābhāvyāc ca pravṛtteḥ | svabhāvas tu pravartate [gītā 5.14] iti hi uktam || tasmāt avidyā-mātraṃ saṃsāro yathā-dṛṣṭa-viṣaya eva | na kṣetrajñasya kevalasyāvidyā tat-kāryaṃ ca | na ca mithyā-jñānaṃ paramārtha-vastu dūṣayituṃ samartham | na hy ūṣara-deśaṃ snehena paṅkī-kartuṃ śaknoti marīcy-udakam | tathāvidyā kṣetrajñasya na kiṃcit kartuṃ śaknoti | ataś cedam uktam - kṣetrajñaṃ cāpi māṃ viddhi | ajñānenāvṛtaṃ jñānam [gītā 5.15] iti ca || atha kim idaṃ saṃsāriṇām ivāham evam mamaivedam iti paṇḍitānām api ? sṛṇu | idaṃ tat pāṇḍityam, yat kṣetra evātma-darśanam | yadi punaḥ kṣetrajñam avikriyaṃ paśyeyus tato na bhogaṃ karma vākāṅkṣeyur mama syād iti | vikriyaiva bhoga-karmaṇī | athaivaṃ sati, phalārthitvād avidvān pravartate | viduṣaḥ punar avikriyātma-darśinaḥ phalārthitvābhāvāt pravṛtty-anupapattau kārya-karaṇa-saṃghāta-vyāpāroparame nivṛttir upacaryate || idaṃ cānyat pāṇḍityaṃ kasyacid astu - kṣetrajña īśvara eva | kṣetraṃ cānyat kṣetrajñasyaiva viṣayaḥ | ahaṃ tu saṃsārī sukhī duḥkhī ca | saṃsāroparamaś ca mama kartavyaḥ kṣetra-kṣetrajña-vijñānena, dhyānena ceśvaraṃ kṣetrajñaṃ sākṣāt kṛtvā tat-svarūpāvasthāneneti | yaś caivaṃ budhyate, yaś ca bodhayati, nāsau kṣetrajña iti | evaṃ manvāno yaḥ sa paṇḍitāpaśabdaḥ | saṃsāra-mokṣayoḥ śāstrasya cārthavattvaṃ karomīti | ātmahā svayaṃ mūḍho 'nyāṃ ca vyāmohayati śāstrārtha-saṃpradāya-rahitatvāt, śruta-hānim aśruta-kalpanāṃ ca kurvan | tasmāt asaṃpradāya-vit sarva-śāstra-vid api mūrkhavad eva upekṣaṇīyaḥ || yat tūktam īśvarasya kṣetrajñaikatve saṃsāritvaṃ prāpnoti | kṣetrajñānāṃ ceśvaraikatve saṃsāriṇo 'bhāvāt saṃsārābhāva-prasaṅga iti | etau doṣau pratyuktau vidyāvidyayor vailakṣaṇyābhyupagamād iti | katham ? avidyā-parikalpita-doṣeṇa tad-viṣayaṃ vastu pāramārthikaṃ na duṣyatīti | tathā ca dṛṣṭanto darśitaḥ - marīcy-ambhasā ūṣara-deśo na paṅkīkriyata iti | saṃsāriṇo 'bhāvāt saṃsārābhāva-prasaṅga-doṣo 'pi saṃsāra-saṃsāriṇor avidyā-kalpitatvopapattyā pratyuktaḥ || nanu avidyāvattvam eva kṣetrajñasya saṃsāritva-doṣaḥ | tat-kṛtaṃ ca sukhitva-duḥkhitvādi pratyakṣam upalabhyate iti cet, na | jñeyasya kṣetra-dharmatvāt, jñātuḥ kṣetrajñasya tat-kṛta-doṣānupapatteḥ | yāvat kiṃcit kṣetrajñasya doṣa-jātam avidyamānam āsañjayasi, tasya jñeyatvopapatteḥ kṣetra-dharmatvam eva, na kṣetrajña-dharmatvam | na ca tena kṣetrajño duṣyati, jñeyena jñātuḥ saṃsargānupapatteḥ | yadi hi saṃsargaḥ syāt, jñeyatvam eva nopapadyeta | yady ātmano dharmo 'vidyāvattvaṃ duḥkhitvādi ca kathaṃ bhoḥ pratyakṣam upalabhyate | kathaṃ vā kṣetrajña-dharmaḥ | jñeyaṃ ca sarvaṃ kṣetraṃ jñātaiva kṣetrajña ity avadhārite, avidyā-duḥkhitvādeḥ kṣetrajña-viśeṣaṇatvaṃ kṣetrajña-dharmatvaṃ tasya ca pratyakṣopalabhyatvam iti viruddham ucyate 'vidyā-mātrāvaṣṭambhāt kevalam || atrāha - sāvidyā kasya ? iti | yasya dṛśyate tasyaiva | kasya dṛśyate ? iti | atrocyate - avidyā kasya dṛśyate iti praśno nirarthakaḥ | katham ? dṛśyate ced avidyā, tadvantam api paśyasi | na ca tadvaty upalabhyamāne sā kasya ? iti praśno yuktaḥ | na hi gomati upalabhyamāne gāvaḥ kasya ? iti praśno 'rthavān bhavati | nanu viṣamo dṛṣṭāntaḥ | gavāṃ tadvataś ca pratyakṣatvāt tat-saṃbandho 'pi pratyakṣa iti praśno nirarthakaḥ | na tathāvidyā tadvāṃś ca pratyakṣau, yataḥ praśno nirarthakaḥ syāt | apratyakṣeṇāvidyāvatāvidyā-saṃbandhe jñāte, kiṃ tava syāt ? avidyāyā anartha-hetutvāt parihartavyā syāt | yasyāvidyā, sa tāṃ parihariṣyati | nanu mamaivāvidyā | jānāsi tarhy avidyāṃ tadvantaṃ ca ātmānam | jānāmi, na tu pratyakṣeṇa | anumānenaś cej jānāsi, kathaṃ saṃbandhagrahaṇam ? na hi tava jñātuḥ jñeya-bhūtayāvidyayā tat-kāle saṃbandho grahītuṃ śakyate, avidyāyā viṣayatvenaiva jñātur upayuktatvāt | na ca jñātur avidyāyā ca saṃbandhasya yo grahītā, jñānaṃ cānyat tad-viṣayaṃ saṃbhavati | anavasthā-prāpteḥ | yadi jñātrāpi jñeya-saṃbandho jñāyate, anyo jñātā kalpyaḥ syāt, tasyāpy anyaḥ, tasyāpy anyaḥ ity anavasthāparihāryā | yadi punar avidyā jñeyā, anyad vā jñeyaṃ jñeyam eva | tathā jñātāpi jñātaiva, na jñeyaṃ bhavati | yadā caivam, avidyā-duḥkhitvādyair na jñātuḥ kṣetrajñasya kiṃcit duṣyati || nanu ayam eva doṣaḥ, yat doṣavat-kṣetra-vijñātṛtvam | na ca vijñāna-svarūpasyaivāvikriyasya vijñātṛtvopacārāt | yathoṣṇatā-mātreṇāgnes tapti-kriyopacāraḥ, tadvat | yathātra bhagavatā kriyākāraka-phalātmatvābhāva ātmani svata eva darśitaḥ - avidyādhyāropita eva kriyā-kārakādir ātmany upacaryate | tathā tatra tatra ya enaṃ vetti hantāram [gītā 2.19], prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ [gītā 3.27], nādatte kasyacit pāpam [gītā 5.15] ity ādi-prakaraṇeṣu darśitaḥ | tathaiva ca vyākhyātam asmābhiḥ | uttareṣu ca prakaraṇeṣu darśayiṣyāmaḥ || hanta ! tarhy ātmani kriyā-kāraka-phalātmatāyāḥ svato 'bhāve, avidyayā cādhyāropitatve, karmāṇy avidvat-kartavyāny eva, na viduṣām iti prāptam | satyam evaṃ prāptam, etad eva ca na hi deha-bhṛtā śakyam ity atra darśayiṣyāmaḥ | sarva-śāstrārthopasaṃhāra-prakaraṇe ca samāsenaiva kaunteya niṣṭhā jñānasya yā parā ity atra viśeṣato darśayiṣyāmaḥ | alam iha bahu-prapañcanena, iti upasaṃhriyate