13.17 And undivided, yet It exists as if divided in beings; It is to be known as the supporter of being; It devours and It generates.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||
BG 13.17
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.17।। और वह अविभक्त है, तथापि वह भूतों में विभक्त के समान स्थित है। वह ज्ञेय ब्रह्म भूतमात्र का भर्ता, संहारकर्ता और उत्पत्ति कर्ता है।।
किं च, सर्वत्र विद्यमानम् अपि सन् नोपलभ्यते चेत्, ज्ञेयं तमस् तर्हि ? न । किं तर्हि ? - ज्योतिषाम् आदित्य्-आदीनाम् अपि तज् ज्ञेयं ज्योतिः । आत्म-चैतन्य-ज्योतिषेद्धानि ह्य् आदित्य्-आदीनि ज्योतींषि दीप्यन्ते, येन सूर्यस् तपति तेजसेद्धः [तैत्त्ब्र् ३।१२।९], तस्य भासा सर्वम् इदं विभाति [श्वेतु ६।१४] ईत्य् आदि-श्रुतिभ्यः । स्मृते च इहैव - यद् आदित्य-गतं तेजः [गीता १५।१२] इत्य् आदेः । तमसो ऽज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेर् दुःसंपादन-बुद्ध्या प्राप्तावसादस्योत्तम्भनार्थम् आह - ज्ञानम् अमानित्वादि । ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् [गीता १३।१३] आदिनोक्तम् । ज्ञान-गम्यम् ज्ञेयम् एव ज्ञातं सज् ज्ञान-फलम् इति ज्ञान-गम्यम् उच्यते । ज्ञायमानं तु ज्ञेयम् । तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणि-जातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते
kiṃ ca, sarvatra vidyamānam api san nopalabhyate cet, jñeyaṃ tamas tarhi ? na | kiṃ tarhi ? - jyotiṣām ādity-ādīnām api taj jñeyaṃ jyotiḥ | ātma-caitanya-jyotiṣeddhāni hy ādity-ādīni jyotīṃṣi dīpyante, yena sūryas tapati tejaseddhaḥ [taittbr 3.12.9], tasya bhāsā sarvam idaṃ vibhāti [śvetu 6.14] īty ādi-śrutibhyaḥ | smṛte ca ihaiva - yad āditya-gataṃ tejaḥ [gītā 15.12] ity ādeḥ | tamaso 'jñānāt param aspṛṣṭam ucyate | jñānāder duḥsaṃpādana-buddhyā prāptāvasādasyottambhanārtham āha - jñānam amānitvādi | jñeyam jñeyaṃ yat tat pravakṣyāmīty [gītā 13.13] ādinoktam | jñāna-gamyam jñeyam eva jñātaṃ saj jñāna-phalam iti jñāna-gamyam ucyate | jñāyamānaṃ tu jñeyam | tad etat trayam api hṛdi buddhau sarvasya prāṇi-jātasya viṣṭhitaṃ viśeṣeṇa sthitam | tatraiva hi trayaṃ vibhāvyate