13.15 Shining by the functions of all the senses, yet without the senses; unattached, yet supporting all; devoid of alities, yet their experiencer.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||
BG 13.15
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.15।। वह समस्त इन्द्रियों के गुणो (कार्यों) के द्वारा प्रकाशित होने वाला, परन्तु (वस्तुत:) समस्त इन्द्रियों से रहित है; आसक्ति रहित तथा गुण रहित होते हुए भी सबको धारणपोषण करने वाला और गुणों का भोक्ता है।।
बहिस् त्वक्-पर्यन्तं देहम् आत्मत्वेनाविद्या-कल्पितम् अपेक्ष्य तम् एवाववधिं कृत्वा बहिर् उच्यते । तथा प्रत्यग्-आत्मानम् अपेक्ष्य देहम् एवावधिं कृत्वा अन्तर् उच्यते । बहिर् अन्तश् चेत्य् उक्ते मध्ये ऽभावे प्राप्ते, इदम् उच्यते - अचरं चरम् एव च, यच् चराचरं देहाभासम् अपि तद् एव ज्ञेयं, यथा रज्जु-सर्पाभासः । यद्य् अचरं चरम् एव च स्यात् व्यवहार-विषयं सर्वं ज्ञेयम्, किम्-अर्थम् इदम् इति सर्वैर् न विज्ञेयम् ? इत्य् उच्यते - सत्यं सर्वाभासं तत् । तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तज् ज्ञेयम् अप्य् अविज्ञेयम् अविदुषाम् । विदुषां तु, आत्मैवेदं सर्वम् [बौ ७।२५।२] ब्रह्मैवेदं सर्वम् [बौ २।५।१] इत्य् आदि-प्रमाणतो नित्यं विज्ञातम् । अविज्ञाततया दूर-स्थं वर्ष-सहस्र-कोट्याप्य् अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वाद् विदुषाम्
bahis tvak-paryantaṃ deham ātmatvenāvidyā-kalpitam apekṣya tam evāvavadhiṃ kṛtvā bahir ucyate | tathā pratyag-ātmānam apekṣya deham evāvadhiṃ kṛtvā antar ucyate | bahir antaś cety ukte madhye 'bhāve prāpte, idam ucyate - acaraṃ caram eva ca, yac carācaraṃ dehābhāsam api tad eva jñeyaṃ, yathā rajju-sarpābhāsaḥ | yady acaraṃ caram eva ca syāt vyavahāra-viṣayaṃ sarvaṃ jñeyam, kim-artham idam iti sarvair na vijñeyam ? ity ucyate - satyaṃ sarvābhāsaṃ tat | tathāpi vyomavat sūkṣmam | ataḥ sūkṣmatvāt svena rūpeṇa taj jñeyam apy avijñeyam aviduṣām | viduṣāṃ tu, ātmaivedaṃ sarvam [bau 7.25.2] brahmaivedaṃ sarvam [bau 2.5.1] ity ādi-pramāṇato nityaṃ vijñātam | avijñātatayā dūra-sthaṃ varṣa-sahasra-koṭyāpy aviduṣām aprāpyatvāt | antike ca tat, ātmatvād viduṣām