13.12 Constancy in Self-knowledge, perception of the end of true knowledge this is declared to be knowledge, and what is opposed to it is ignorance.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||
BG 13.12
Audio
Translations & commentaries(4)
Sūtra — Translation
।।13.12।। अध्यात्मज्ञान में नित्यत्व अर्थात् स्थिरता तथा तत्त्वज्ञान के अर्थ रूप परमात्मा का दर्शन, यह सब तो ज्ञान कहा गया है, और जो इससे विपरीत है, वह अज्ञान है।।
यथोक्तेन ज्ञानेन ज्ञातव्यं किम् ? इत्य् आकाङ्क्षायाम् आह - ननु यमाः नियमाश् चामानित्वादयः । न तैर् ज्ञेयं ज्ञायते । न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम । ज्ञान-सहकारि-कारणत्वाच् च । ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः । अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् । किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् । अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति । अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति । सत्यम् एवम् अपुनर्-उक्तं स्यात् । अर्थश् चेत् संभवति । न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति । विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् । तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः । अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ॥ ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति । न, अनुरूपम् एवोक्तम् । कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [बौ २।३।६] अस्थूलम् अनणु [बौ ३।८।८] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ॥ ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते । अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् । विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च । न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ॥ ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव । तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् । यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ॥ यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति । न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [केनौ १।३] इति श्रुतेः । श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वेति [तैत्त्स् ६।१।१] इत्य् एवम् इति चेत्, न । विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः । उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति । सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् । नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् । नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [श्वेतु ६।१९] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् । यतो वाचो निवर्तन्ते [तैत्तु २।९] इत्य् आदि-श्रुतिभिश् च
yathoktena jñānena jñātavyaṃ kim ? ity ākāṅkṣāyām āha - nanu yamāḥ niyamāś cāmānitvādayaḥ | na tair jñeyaṃ jñāyate | na hy amānitvādi kasyacit vastunaḥ paricchedakaṃ dṛṣṭam | sarvatraiva ca yad-viṣayaṃ jñānaṃ tad eva tasya jñeyasya paricchedakaṃ dṛśyate | na hy anya-viṣayeṇa jñānenānyad upalabhyate, yathā ghaṭa-viṣayeṇa jñānenāgniḥ | naiṣa doṣaḥ | jñāna-nimittatvāj jñānam ucyata iti hy avocāma | jñāna-sahakāri-kāraṇatvāc ca | jñeyaṃ jñātavyaṃ yat tat pravakṣyāmi prakarṣeṇa yathāvat vakṣyāmi | kiṃ-phalaṃ tat ? iti prarocanena śrotur abhimukhīkaraṇāyāha - yaj jñeyaṃ jñātvāmṛtam amṛtatvam aśnute, na punar mriyata ity arthaḥ | anādimat ādir asyāstīti ādimat, nādimad anādimat | kiṃ tat ? paraṃ niratiśayaṃ brahma, jñeyam iti prakṛtam | atra kecit anādi mat-param iti padaṃ chindanti, bahu-vrīhiṇokte 'rthe matupa ānarthakyam aniṣṭaṃ syād iti | artha-viśeṣaṃ ca darśayanti - ahaṃ vāsudevākhyā parā śaktir yasya tan mat-param iti | satyam evam apunar-uktaṃ syāt | arthaś cet saṃbhavati | na tv arthaḥ saṃbhavati, brahmaṇaḥ sarva-viśeṣa-pratiṣedhenaiva vijijñāpayiṣitvān na sat tan nāsad ucyate iti | viśiṣṭa-śaktimattva-pradarśanaṃ viśeṣa-pratiṣedhaś ceti vipratiṣiddham | tasmāt matupo bahu-vrīhiṇā samānārthatve 'pi prayogo śloka-pūraṇārthaḥ | amṛtatva-phalaṃ jñeyaṃ mayocyata iti prarocanenābhimukhīkṛtyāha - na sat taj jñeyam ucyate iti nāpy asat tad ucyate || nanu mahatā parikara-bandhena kaṇṭha-raveṇodghuṣya jñeyaṃ pravakṣyāmīti, ananurūpam uktaṃ na sat tan nāsad ucyata iti | na, anurūpam evoktam | katham ? sarvāsu hy upaniṣatsu jñeyaṃ brahma neti neti [bau 2.3.6] asthūlam anaṇu [bau 3.8.8] ity ādi-viśeṣa-pratiṣedhenaiva nirdiśyate, nedaṃ tad iti vāco 'gocatvāt || nanu na tad asti, yad vastv asti-śabdena nocyate | athāsti-śabdena nocyate, nāsti taj jñeyam | vipratiṣiddhaṃ ca - jñeyaṃ tad asti-śabdena nocyate iti ca | na tāvan nāsti, nāsti-buddhy-aviṣayatvāt || nanu sarvā buddhayo 'sti-nāsti-buddhy-anugatā eva | tatraivaṃ sati jñeyam apy asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | na, atīndriyatvenobhaya-buddhy-anugata-pratyayāviṣayatvāt | yad dhīndriya-gamyaṃ vastu ghaṭādikam, tad asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | idaṃ tu jñeyam atīndriyatvena śabdaika-pramāṇa-gamyatvān na ghaṭādivad ubhaya-buddhy-anugata-pratyaya-viṣayam ity ato na sat tan nāsad ity ucyate || yat tūktam - viruddham ucyate, jñeyaṃ tan na sat tan nāsad ucyata iti | na viruddham, anyad eva tad-viditād atho aviditād adhi [kenau 1.3] iti śruteḥ | śrutir api viruddhārthā iti cet - yathā yajñāya śālām ārabhya yajñam ko hi tad veda yady amuṣmin loke 'sti vā na veti [taitts 6.1.1] ity evam iti cet, na | viditāviditābhyām anyatva-śruter avaśya-vijñeyārtha-pratipādana-paratvāt yady amuṣmin ity ādi tu vidhi-śeṣo 'rtha-vādaḥ | upapatteś ca sad-asad-ādi-śabdair brahma nocyata iti | sarvo hi śabdo 'rtha-prakāśanāya prayuktaḥ śrūyamāṇaś ca śrotṛbhir jāti-kriyā-guṇa-saṃbandha-dvāreṇa saṃketa-grahaṇa-sa-vyapekṣārthaṃ pratyāyayati | nānyathā, adṛṣṭatvāt | tad yathā - gaur aśva iti vā jātitaḥ, pacati paṭhatīti vā kriyātaḥ, śuklaḥ kṛṣṇa iti vā guṇataḥ, dhanī gomān iti vā saṃbandhataḥ | na tu brahma jātimat, ato na sad-ādi-śabda-vācyam | nāpi guṇavat, yena guṇa-śabdenocyeta, nirguṇatvāt | nāpi kriyā-śabda-vācyaṃ niṣkriyatvān niṣkalaṃ niṣkriyaṃ śāntam [śvetu 6.19] iti śruteḥ | na ca saṃbandhī, ekatvāt | advayatvād aviṣayatvād ātmatvāc ca na kenacit, śabdenocyata iti yuktam | yato vāco nivartante [taittu 2.9] ity ādi-śrutibhiś ca