He by whom the world is not disturbed, and who is not disturbed by the world; who is free from joy, envy, fear, and anxiety — he is dear to Me.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥
yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ
BG 12.15
Audio
Translations & commentaries(3)
Sūtra — Translation
यस्मात् संन्यासिनो नोद्विजते नोद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान् नोद्विजते च यः, हर्षामर्ष-भयोद्वेगैर् हर्षश् चामर्षश् च भयं चोद्वेगश् च तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तः । हर्षः प्रिय-लाभे ऽन्तः-करणस्योत्कर्षो रोमाञ्चनाश्रुपातादि-लिङ्गः । अमर्षो ऽसहिष्णुता । भयं त्रासः । उद्वेग उद्विग्नता । तैर् मुक्तो यः स च मे प्रियः
yasmāt saṃnyāsino nodvijate nodvegaṃ gacchati na santapyate na saṃkṣubhyati lokaḥ, tathā lokān nodvijate ca yaḥ, harṣāmarṣa-bhayodvegair harṣaś cāmarṣaś ca bhayaṃ codvegaś ca tair harṣāmarṣa-bhayodvegair muktaḥ | harṣaḥ priya-lābhe 'ntaḥ-karaṇasyotkarṣo romāñcanāśrupātādi-liṅgaḥ | amarṣo 'sahiṣṇutā | bhayaṃ trāsaḥ | udvega udvignatā | tair mukto yaḥ sa ca me priyaḥ