11.54 But by single-minded devotion can I, of this Form, be known and seen in reality and also entered into, O Arjuna.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||११-५४||
bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||
BG 11.54
Audio
Translations & commentaries(4)
Sūtra — Translation
।।11.54।। परन्तु हे परन्तप अर्जुन! अनन्य भक्ति के द्वारा मैं तत्त्वत: 'जानने', 'देखने' और 'प्रवेश' करने के लिए (एकी भाव से प्राप्त होने के लिए) भी, शक्य हूँ!।।
कथं पुनः शक्य इत्य् उच्यते - भक्त्या तु किं-विशिष्टया इत्य् आह - अनन्ययापृथग्-भूतया, भगवतो ऽन्यत्र पृथङ् न कदाचिद् अपि या भवति सा त्व् अनन्या भक्तिः । सर्वैर् अपि करणैः वासुदेवाद् अन्यन् न उपलभ्यते यया, सानन्या भक्तिः, तया भक्त्या शक्यो ऽहम् एवं-विधो विश्व-रूप-प्रकारो हे ऽर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्-कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप
kathaṃ punaḥ śakya ity ucyate - bhaktyā tu kiṃ-viśiṣṭayā ity āha - ananyayāpṛthag-bhūtayā, bhagavato 'nyatra pṛthaṅ na kadācid api yā bhavati sā tv ananyā bhaktiḥ | sarvair api karaṇaiḥ vāsudevād anyan na upalabhyate yayā, sānanyā bhaktiḥ, tayā bhaktyā śakyo 'ham evaṃ-vidho viśva-rūpa-prakāro he 'rjuna, jñātuṃ śāstrataḥ | na kevalaṃ jñātuṃ śāstrataḥ, draṣṭuṃ ca sākṣāt-kartuṃ tattvena tattvataḥ, praveṣṭuṃ ca mokṣaṃ ca gantuṃ parantapa