11.34 Drona, Bhishma, Jayadratha, Karna and other brave warriors these are already slain by Me: do thou kill; be not distressed with fear; fight and thou shalt coner thy enemies in battle.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ||११-३४||
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||
BG 11.34
Audio
Translations & commentaries(4)
Sūtra — Translation
।।11.34।। द्रोण, भीष्म, जयद्रथ, कर्ण तथा और भी बहुत से मेरे द्वारा मारे गये वीर योद्धाओं को तुम मारो; भय मत करो; युद्ध करो; तुम युद्ध में शत्रुओं को जीतोगे।।
द्रोणं च, येषु येषु योधेष्व् अर्जुनस्याशङ्का तांस् तान् व्यपदिशति भगवान् मया हतान् इति । तत्र द्रोण-भीष्मयोस् तावत् प्रसिद्धम् आशङ्का-कारणम् । द्रोणस् तु धनुर्-वेदाचार्यो दिव्यास्त्र-संपन्नः । आत्मनश् च विशेषतो गुरुर् गरिष्ठः । भीष्मश् च स्वच्छन्द-मृत्युर् दिव्यास्त्र-संपन्नश् च परशुरामेण द्वन्द्व-युद्धम् अगमत्, न च पराजितः । तथा जयद्रथः । यस्य पिता तपश् चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतीति । कर्णो ऽपि वासव-दत्तया शक्त्या त्व् अमोघया संपन्नः सूर्य-पुत्रः कानीनो यतः, अतस् तन्-नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्त-मात्रेण । मा व्यथिष्ठास् तेभ्यो भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधन-प्रभृतीन् रणे युद्धे सपत्नान् शत्रून्
droṇaṃ ca, yeṣu yeṣu yodheṣv arjunasyāśaṅkā tāṃs tān vyapadiśati bhagavān mayā hatān iti | tatra droṇa-bhīṣmayos tāvat prasiddham āśaṅkā-kāraṇam | droṇas tu dhanur-vedācāryo divyāstra-saṃpannaḥ | ātmanaś ca viśeṣato gurur gariṣṭhaḥ | bhīṣmaś ca svacchanda-mṛtyur divyāstra-saṃpannaś ca paraśurāmeṇa dvandva-yuddham agamat, na ca parājitaḥ | tathā jayadrathaḥ | yasya pitā tapaś carati mama putrasya śiro bhūmau nipātayiṣyati yaḥ, tasyāpi śiraḥ patiṣyatīti | karṇo 'pi vāsava-dattayā śaktyā tv amoghayā saṃpannaḥ sūrya-putraḥ kānīno yataḥ, atas tan-nāmnaiva nirdeśaḥ | mayā hatān tvaṃ jahi nimitta-mātreṇa | mā vyathiṣṭhās tebhyo bhayaṃ mā kārṣīḥ | yudhyasva jetāsi duryodhana-prabhṛtīn raṇe yuddhe sapatnān śatrūn