11.33 Therefore, stand up and obtain fame. Coner the enemies and enjoy the unrivalled kingdom. Verily by Me have they been already slain; be thou a mere instrument, O Arjuna.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ||११-३३||
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||
BG 11.33
Audio
Translations & commentaries(4)
Sūtra — Translation
।।11.33।। इसलिए तुम उठ खड़े हो जाओ और यश को प्राप्त करो; शत्रुओं को जीतकर समृद्ध राज्य को भोगो। ये सब पहले से ही मेरे द्वारा मारे जा चुके हैं। हे सव्यसाचिन्! तुम केवल निमित्त ही बनो।।
तस्मात् त्वम् उत्तिष्ठ भीष्म-प्रभृतयो ऽतिरथा अजेया देवैर् अप्य् अर्जुनेन जिता इति यशः लभस्व । केवलं पुण्यैर् हि तत् प्राप्यते । जित्वा शत्रून् दुर्योधन-प्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् । मयैवैते निहता निश्चयेन हताः प्राणैर् वियोजिताः पूर्वम् एव । निमित्त-मात्रं भव त्वम् । हे सव्यसाचिन् ! सव्येन वामेनापि हस्तेन शराणां क्षेपात् सव्यसाचीत्य् उच्यते ऽर्जुनः
tasmāt tvam uttiṣṭha bhīṣma-prabhṛtayo 'tirathā ajeyā devair apy arjunena jitā iti yaśaḥ labhasva | kevalaṃ puṇyair hi tat prāpyate | jitvā śatrūn duryodhana-prabhṛtīn bhuṅkṣva rājyaṃ samṛddham asapatnam akaṇṭakam | mayaivaite nihatā niścayena hatāḥ prāṇair viyojitāḥ pūrvam eva | nimitta-mātraṃ bhava tvam | he savyasācin ! savyena vāmenāpi hastena śarāṇāṃ kṣepāt savyasācīty ucyate 'rjunaḥ