10.9 With their mind and their life wholly absorbed in Me, enlightening each other and ever speaking of Me, they are satisfied and delighted.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९||
maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||
BG 10.9
Audio
Translations & commentaries(4)
Sūtra — Translation
।।10.9।। मुझमें ही चित्त को स्थिर करने वाले और मुझमें ही प्राणों (इन्द्रियों) को अर्पित करने वाले भक्तजन, सदैव परस्पर मेरा बोध कराते हुए, मेरे ही विषय में कथन करते हुए सन्तुष्ट होते हैं और रमते हैं।।
किं च - मच्-चित्ताः, मयि चित्तं येषां ते मच्-चित्ताः । मद्-गत-प्राणाः मां गताः प्राप्ताश् चक्षुर्-आदयः प्राणा येषां ते मद्-गत-प्राणाः । मय्य् उपसंहृत-करणाः इत्य् अर्थः । अथवा, मद्-गत-प्राणाः मद्-गत-जीवना इत्य् एतत् । बोधयन्तो ऽवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तश् च ज्ञान-बल-वीर्यादि-धर्मैर् विशिष्टं माम् । तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-संगत्येव
kiṃ ca - mac-cittāḥ, mayi cittaṃ yeṣāṃ te mac-cittāḥ | mad-gata-prāṇāḥ māṃ gatāḥ prāptāś cakṣur-ādayaḥ prāṇā yeṣāṃ te mad-gata-prāṇāḥ | mayy upasaṃhṛta-karaṇāḥ ity arthaḥ | athavā, mad-gata-prāṇāḥ mad-gata-jīvanā ity etat | bodhayanto 'vagamayantaḥ parasparam anyonyam, kathayantaś ca jñāna-bala-vīryādi-dharmair viśiṣṭaṃ mām | tuṣyanti ca paritoṣam upayānti ca ramanti ca ratiṃ ca prāpnuvanti priya-saṃgatyeva