10.34 And I am the all-devouring Death, and the prosperity of those who are to be prosperous; among the feminine alities (I am) fame, prosperity, speech, memory, intelligence, firmness and forgiveness.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४||
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||
BG 10.34
Audio
Translations & commentaries(4)
Sūtra — Translation
।।10.34।। मैं सर्वभक्षक मृत्यु और भविष्य में होने वालों की उत्पत्ति का कारण हूँ; स्त्रियों में कीर्ति, श्री, वाक (वाणी), स्मृति, मेधा, धृति और क्षमा हूँ।।
मृत्युर् द्विविधो धनादि-हरः प्राण-हरश् च । तत्र यः प्राण-हरः, स सर्व-हर उच्यते । सो ऽहम् इत्य् अर्थः । अथवा, पर ईश्वरः प्रलये सर्व-हरणात् सर्व-हरः, सो ऽहम् । उद्भव उत्कर्षः अभ्युदयस् तत्-प्राप्ति-हेतुश् चाहम् । केषाम् ? भविष्यतां भावि-कल्याणानाम्, उत्कर्ष-प्राप्ति-योग्यानाम् इत्य् अर्थः । कीर्तिः श्रीः वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा इत्य् एता उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभास-मात्र-संबन्धेनापि लोकः कृतार्थम् आत्मानं मन्यते
mṛtyur dvividho dhanādi-haraḥ prāṇa-haraś ca | tatra yaḥ prāṇa-haraḥ, sa sarva-hara ucyate | so 'ham ity arthaḥ | athavā, para īśvaraḥ pralaye sarva-haraṇāt sarva-haraḥ, so 'ham | udbhava utkarṣaḥ abhyudayas tat-prāpti-hetuś cāham | keṣām ? bhaviṣyatāṃ bhāvi-kalyāṇānām, utkarṣa-prāpti-yogyānām ity arthaḥ | kīrtiḥ śrīḥ vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā ity etā uttamāḥ strīṇām aham asmi, yāsām ābhāsa-mātra-saṃbandhenāpi lokaḥ kṛtārtham ātmānaṃ manyate