10.3 He who knows Me as unborn and beginningless, as the great Lord of the worlds, he, among mortals, is undeluded and he is liberated from all sins.
Bhagavad Gita
श्रीमद्भगवद्गीता
मूल श्लोकः
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||१०-३||
yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||
BG 10.3
Audio
Translations & commentaries(4)
Sūtra — Translation
।।10.3।। जो मुझे अजन्मा, अनादि और लोकों के महान् ईश्वर के रूप में जानता है, र्मत्य मनुष्यों में ऐसा संमोहरहित (ज्ञानी) पुरुष सब पापों से मुक्त हो जाता है।।
किं च - यः माम् अजम् अनादिं च, यस्मात् अहम् आदिर् देवानां महर्षीणां च, न ममान्यः आदिः विद्यते । अतो ऽहम् अजो ऽनादि च । अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मत्र्येषु मनुष्येषु, सर्वपापैः सर्वेः पापैर् मति-पूर्वामतिपूर्व-कृतैः प्रमुच्यते प्रमोक्ष्यते
kiṃ ca - yaḥ mām ajam anādiṃ ca, yasmāt aham ādir devānāṃ maharṣīṇāṃ ca, na mamānyaḥ ādiḥ vidyate | ato 'ham ajo 'nādi ca | anāditvam ajatve hetuḥ, taṃ mām ajam anādiṃ ca yo vetti vijānāti lokamaheśvaraṃ lokānāṃ mahāntam īśvaraṃ turīyam ajñānatatkāryavarjitam asaṃmūḍhaḥ saṃmohavarjitaḥ saḥ matryeṣu manuṣyeṣu, sarvapāpaiḥ sarveḥ pāpair mati-pūrvāmatipūrva-kṛtaiḥ pramucyate pramokṣyate